मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४०

संहिता

वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।
वृ॒त्र॒हा सो॑म॒पात॑मः ॥

पदपाठः

व॒वृ॒धा॒नः । उप॑ । द्यवि॑ । वृषा॑ । व॒ज्री । अ॒रो॒र॒वी॒त् ।
वृ॒त्र॒ऽहा । सो॒म॒ऽपात॑मः ॥

सायणभाष्यम्

वावृधानोवृद्धः वज्री वज्रवान् अतएव वृत्रहा मेघस्यासुरस्य वा हन्ता सोमपातमः अतिशयेन सोमस्य पातेन्द्रः वृषा उदकानं वर्षिता द्यवि द्युलोके अन्तरिक्षे उपसमीपे यथास्माभिः श्रूयते तथा अरोरवीत् भृशं स्तनयित्नुलक्षणं शब्दमकरोत् मेघेन वज्रहतेन ईदृशं शब्दमचीकरदित्यर्थः ॥ ४० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६