मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४१

संहिता

ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।
इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥

पदपाठः

ऋषिः॑ । हि । पू॒र्व॒ऽजाः । असि॑ । एकः॑ । ईशा॑नः । ओज॑सा ।
इन्द्र॑ । चो॒ष्कू॒यसे॑ । वसु॑ ॥

सायणभाष्यम्

हे इन्द्र पूर्वजाः सर्वेभ्योदेवेभ्यः पूर्वं जातउत्पन्नः यद्वा यज्ञेषु प्रथममेव प्रादुर्भूतः त्वं ऋषिर्हि द्रष्टा सर्वज्ञः खल्वसि भवसि । अपिच सर्वेषु देवेषु मध्ये एकोमुख्यः ओजसा बलेन ईशानईश्वरोभवसि । सत्वं वसु धनं चोष्कूयसे पुनःपुनः स्तोतृभ्योददासि । स्कुञ् आप्रवणे इह दानार्थः । तथाचोक्तम्-चोष्कूयमाणमिन्द्रभूरिवामं दददिन्द्रबहुवननीयमिति ॥ ४१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७