मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४३

संहिता

इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।
कण्वा॑ उ॒क्थेन॑ वावृधुः ॥

पदपाठः

इ॒माम् । सु । पू॒र्व्याम् । धिय॑म् । मधोः॑ । घृ॒तस्य॑ । पि॒प्युषी॑म् ।
कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ॥

सायणभाष्यम्

इमामिदानीं क्रियमाणां सु सुष्ठु पूर्व्यां पूर्वैःपित्रादिभिः कृतां मधोर्मधुरस्य घृतस्य क्षरणशीलस्योदकस्य पिप्युषीं वर्धयित्रीं यद्वा मधुरेण घृतेनाज्येन प्रवृद्धांधियं यागक्रियां कण्वाः कण्वगोत्राऋषयः उक्थेन शस्त्रेण वावृधुरिन्द्रार्थं वर्धयन्ति उक्थैर्हि यागोवर्धते अत्यष्टोमादिषू- त्तरासु संस्थासु शस्त्रवृद्धेर्दृष्टत्वात् यद्वा पूर्व्यां चिरन्तनीं इमामिन्द्रस्य धियं अनुग्रहबुद्धिं क्षरणशीलेन मधुरेण स्तोमेन पिप्युषीं वर्धनीयां उक्थेन स्तोत्रेण वावृधुः वर्धयन्ति ॥ ४३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७