श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।
राधां॑सि॒ याद्वा॑नाम् ॥
श॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ ।
राधां॑सि । याद्वा॑नाम् ॥
इदमादिकेन तृचेन तिरिन्दिरस्य राज्ञोदानं स्तूयते पर्शौ परशुनाम्नाः पुत्रे उपचाराज्जन्ये जनकशब्दः तिरिन्दिरे एतत्संज्ञे राजनि याद्वानां यदुरिति मनुष्यनाम यदवएव याद्वाः स्वार्थिकस्तद्धितः तेषां मध्ये अहं शतं शतसंख्याकानि सहस्रं सहस्रसंख्याकानिच राधांसि धनानि आददे स्वीकरोमि । यद्वा याद्वानां यदुकुलजातानामन्येषां राज्ञां स्वभूतानि राधांसि बलादपहृतानि तिरिन्दिरे वर्तमानान्यहं प्राप्नोमि ॥ ४६ ॥