मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४७

संहिता

त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।
द॒दुष्प॒ज्राय॒ साम्ने॑ ॥

पदपाठः

त्रीणि॑ । श॒तानि॑ । अर्व॑ताम् । स॒हस्रा॑ । दश॑ । गोना॑म् ।
द॒दुः । प॒ज्राय॑ । साम्ने॑ ॥

सायणभाष्यम्

पूर्वस्यामृचि स्वसम्प्रदानकं दानमुक्तं अधुना अन्येभ्योप्यृषिभ्यस्तिरिन्दिरोबहुधनं दत्तवानित्याह अर्वतां गन्तॄणामश्वानां त्रीणि शतानि गोनां दश शतगुणितानि सहस्र सहस्राणि च पज्राय स्तुतीनां प्रार्जकाय साम्ने एतत्संज्ञाय ऋषये यद्वा साम्ने सामस्तोत्रं तद्वते पज्राय पज्रकुलजाताय कक्षीवते ददुः तिरिन्द्रिराख्याराजानोदत्तवन्तः ॥ ४७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७