मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३

संहिता

उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒ः पृश्नि॑मातरः ।
धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥

पदपाठः

उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः ।
धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥

सायणभाष्यम्

वाश्रासोवाशनशीलाः शब्दकारिणः पृश्निमातरः पृश्निर्माध्यमिका वाक् सा माता जननी येषांते तथोक्ताः ऋतश्छन्दसीति कपःप्रतिषेधः ईदृशा मरुतः वायुभिः वान्ति गच्छन्तीति वायवः पृषत्यः पृषतीभिर्वाहनभूताभिः स्वावयवभूतैर्वायुभिरेव वा उदीरयन्त उद्गमयन्ति मेघादिकं तथा पिप्युषीं वर्धयित्रीं इषमन्नं च स्तोतृभ्योधुक्षंत दुहन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८