मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ४

संहिता

वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् ।
यद्यामं॒ यान्ति॑ वा॒युभि॑ः ॥

पदपाठः

वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् ।
यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥

सायणभाष्यम्

मरुतः एतत्संज्ञादेवाः मिहं वृष्टिं वपन्ति विकिरन्ति विक्षिपन्ति तथा पर्वतान् गिरीन् प्रवेण्यन्ति प्रकंपयन्ति अयंमर्थः कदेतिचेत् यद्यदा वायुभिः सार्धं यामं रथं गमनं वा यांति प्राप्नुवन्ति तदानीमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८