मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ६

संहिता

यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे ।
यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥

पदपाठः

यु॒ष्मान् । ऊं॒ इति॑ । नक्त॑म् । ऊ॒तये॑ । यु॒ष्मान् । दिवा॑ । ह॒वा॒म॒हे॒ ।
यु॒ष्मान् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥

सायणभाष्यम्

हे मरुतो युष्मां उ युष्मानेव नक्तं रात्रौ ऊतये रक्षणार्थं हवामहे दिवा अह्निच युष्मानेवाह्वयामहे अध्वरे ध्वरोनास्त्यस्मिन्नित्यध्व- रोयागः नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । यागे प्रयति प्रगच्छति प्रवर्तमाने सति रक्षणार्थं युष्मानेवाह्वयामहे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९