मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ७

संहिता

उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।
वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥

पदपाठः

उत् । ऊं॒ इति॑ । त्ये । अ॒रु॒णऽप्स॑वः । चि॒त्राः । यामे॑भिः । ई॒र॒ते॒ ।
वा॒श्राः । अधि॑ । स्नुना॑ । दि॒वः ॥

सायणभाष्यम्

त्ये ते पूर्वोक्तगुणाः अरुणप्सवः अरुणवर्णरूपाः चित्राश्चायनीयाः आश्चर्यभूतावा वाश्राः शब्दकारिणः एवंभूतामरुतः यामेभिर्यामै- र्यानैः दिवोधि द्युलोकस्योपरि स्नुना सानुना समुच्छ्रितप्रदेशेन उदीरते उद्गच्छन्ति उइति पूरणः पदादिषु मांस्पृत्स्नूनामुपसंख्यानमिति सानुशब्दस्य स्नुभावः ॥ ७ ॥ कारीर्यां सौर्यस्य हविषः सृजन्तिरश्मिमित्येषानुवाक्या सूत्र्यतेहि-सृजन्तिरश्मिमोजसावहिष्ठेभिर्विहरन्यासितन्तुमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९