मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ८

संहिता

सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।
ते भा॒नुभि॒र्वि त॑स्थिरे ॥

पदपाठः

सृ॒जन्ति॑ । र॒श्मिम् । ओज॑सा । पन्था॑म् । सूर्या॑य । यात॑वे ।
ते । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

सायणभाष्यम्

तच्छब्दश्रुतेर्यच्छब्दाध्याहारः थे मरुतः सूर्याय सूर्यस्य षष्ठ्यर्थेचतुर्थीवक्तव्येति चतुर्थी । यातवे गन्तवे गन्तुं रश्मिं व्याप्तं अशेरशचेति अश्नोतेरौणादिकोमिप्रत्ययः रशादेशश्च । यद्वा रश्मिभिस्तेजोभिर्युक्तं पन्थां पन्थानं ओजसा बलेन सृजन्ति उत्पादयन्ति वृत्रादिभिरा- वृतं सूर्यपथं आवरकस्य वृत्रादेरपनयनेन जनयन्तीत्यर्थः । ते मरुतः भानुभिस्तेजोभिः वितस्थिरे कृत्स्नं जगद्भ्याप्यावतिष्ठंते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९