मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ११

संहिता

मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे ।
आ तू न॒ उप॑ गन्तन ॥

पदपाठः

मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्न॒ऽयन्तः॑ । हवा॑महे ।
आ । तु । नः॒ । उप॑ । ग॒न्त॒न॒ ॥

सायणभाष्यम्

हे मरुतः यद्ध यदा खलु वो युष्मान् सुम्नायन्तः सुम्नं सुखं आत्मनइच्छन्तोवयं दिवः द्युलोकात् हवामहे स्तुतिभिराह्वयामहे । आतु अनन्तरमेव शीघ्रं नोस्मान् उपगन्तन उपगच्छत गमेर्लोटि तप्तनप्तनथनाश्चेतितनबादेशः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०