मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १२

संहिता

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।
उ॒त प्रचे॑तसो॒ मदे॑ ॥

पदपाठः

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । रुद्राः॑ । ऋ॒भु॒क्ष॒णः॒ । दमे॑ ।
उ॒त । प्रऽचे॑तसः । मदे॑ ॥

सायणभाष्यम्

उतापिच हे सुदानवः शोभनदाना हे रुद्राः रुद्रपुत्राः पादादित्वादामंत्रितनिघाताभावः हे ऋभुक्षणः महानतः उरुतेजस्कावा ईदृशा हे मरुतः यूयं हि खलु दये यज्ञगृहे मदे मदकरे सोमे पीतेसति प्रचेतसः स्थ प्रकृष्टज्ञानाभवथ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०