मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १५

संहिता

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।
अदा॑भ्यस्य॒ मन्म॑भिः ॥

पदपाठः

ए॒ताव॑तः । चि॒त् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।
अदा॑भ्यस्य । मन्म॑ऽभिः ॥

सायणभाष्यम्

मर्त्योमनुष्यः स्तोता मन्मभिः स्तोत्रैः सुम्नं सुखं धनं वा एषां मरुतां स्वभूतं भिक्षेत याचेत । इदानीं गणाभिप्रायेणैकवदाह एतावतश्चित् यत्परिमाणस्यच अदाभ्यस्य केनापि हिंसितुमशक्यस्य मरुद्गणस्य सुम्नं भिक्षेत एतच्छब्दात् यत्तदेतेभ्यइति परिमाणेर्थेवतुप् आसर्वना- म्नइत्यात्वम् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०