मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १६

संहिता

ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभि॑ः ।
उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥

पदपाठः

ये । द्र॒प्साःऽइ॑व । रोद॑सी॒ इति॑ । धम॑न्ति । अनु॑ । वृ॒ष्टिऽभिः॑ ।
उत्स॑म् । दु॒हन्तः॑ । अक्षि॑तम् ॥

सायणभाष्यम्

ये मरुतः द्रप्साइव उदबिन्दवइव रोदसी द्यावापृथिव्यौ वृष्टिभिर्वर्षणैः अनुधमन्ति अनुगच्छन्ति साकल्येन व्याप्नुवन्ति । यद्वा अनुध्माते उच्छसितावयवे कुर्वन्ति । किंकुर्वन्तः अक्षितं अक्षीणमुदकं उत्सं मेघं दुहन्तः पूरयन्तः मेघादवाङ्मुखं पातयन्तः दुहेर्लक्षणहेत्वोरिति हेतौ शतृप्रत्ययः यतएवं दुहन्ति ततोरोदसी अनुधमन्तीत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१