मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १७

संहिता

उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभि॑ः ।
उत्स्तोमै॒ः पृश्नि॑मातरः ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्व॒नेभिः॑ । ई॒र॒ते॒ । उत् । रथैः॑ । उत् । ऊं॒ इति॑ । वा॒युऽभिः॑ ।
उत् । स्तोमैः॑ । पृश्नि॑ऽमातरः ॥

सायणभाष्यम्

स्वानेभिः स्वानैः शब्दैः मरुतउदीरते उद्गच्छन्ति । स्वनशब्दे स्वनहसोर्बेति अपोविकल्पितत्वात् पक्षेघञ् कर्षात्वतइत्यन्तोदात्तत्वम् बहुलंछन्दसीतिभिसऎसभाव् उइतिपूरणः । तथा रथैः रथप्रमुखैर्वायुभिर्वाहनैश्च उदीरते पृश्निमातरः मरुतः यथा स्तोमैः स्तोत्रैः उदीरते ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१