येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् ।
रा॒ये सु तस्य॑ धीमहि ॥
येन॑ । आ॒व । तु॒र्वश॑म् । यदु॑म् । येन॑ । कण्व॑म् । ध॒न॒ऽस्पृत॑म् ।
रा॒ये । सु । तस्य॑ । धी॒म॒हि॒ ॥
येनात्मीयेन रक्षणेन तुर्वशं एतत्संज्ञं यदुं एतत्संज्ञञ्च राजर्षिं आव यूयं रक्षितवन्तः स्थ अवतेर्लेटि मध्यमबहुवचनेरूपमेतत् । येनच धनस्पृतं धनकामं कण्वमृषिं रक्षितवन्तः स्थ । तस्य युष्मदीयं रक्षणं राये धनार्थं सुधीमहि शोभनं ध्यायेम ॥ १८ ॥