मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २५

संहिता

वि॒द्युद्ध॑स्ता अ॒भिद्य॑व॒ः शिप्रा॑ः शी॒र्षन्हि॑र॒ण्ययी॑ः ।
शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥

पदपाठः

वि॒द्युत्ऽह॑स्ताः । अ॒भिऽद्य॑वः । शिप्राः॑ । शी॒र्षन् । हि॒र॒ण्ययीः॑ ।
शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥

सायणभाष्यम्

विद्युद्धस्ताः विद्योतमानायुधबाहवः अभिद्यवःअभिगतदीप्तयः शुभ्राः शोभमानामरुतः शीर्षन् शीर्ष्णि शिरसि आत्मीयेषु शिरःसु हिरण्ययीः हिरण्मयीः स्वर्णमयानि शिप्राः शिरस्त्राणानि श्रिये शोभनार्थं व्यंजत व्यंजयन्ति व्यक्तीकुर्वन्ति धारयन्तीत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२