उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन ।
द्यौर्न च॑क्रदद्भि॒या ॥
उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । उ॒क्ष्णः । रन्ध्र॑म् । अया॑तन ।
द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥
हे मरुतः उशनाः व्यत्ययेन प्रथमा उशनसा काव्येन ऋषिणा स्तूयमाना यूयम् यद्वा उशनस् शब्दात् सुपांसुलुगिति जसःसुः उशनसः स्तोतॄन् कामयमाना यूयं उक्ष्णः सेक्तुः कामानां वर्षितुः आत्मीयस्यरथस्य वृष्टिहेतोरन्तरिक्षस्यवा रन्ध्रं मध्यं परावतोदूरदेशात् यद्यदा अयातनागच्छत यातेर्लङि मध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तनबादेशः तदानीं द्यौर्न अत्र द्युशब्देन तत्रत्योजनसंघो- लक्ष्यते द्युलोके वर्तमानोजनसङ्घइव पार्थिवमपि सर्वं भूतजातं भिया युष्मद्वेगजनितया भीत्या चक्रदत् अशब्दयत् अकम्पत वा ॥ २६ ॥