मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २७

संहिता

आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।
देवा॑स॒ उप॑ गन्तन ॥

पदपाठः

आ । नः॒ । म॒खस्य॑ । दा॒वने॑ । अश्वैः॑ । हिर॑ण्यपाणिऽभिः ।
देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥

सायणभाष्यम्

हे देवासः दानादिगुणयुक्तामरुतः नोस्माकं मखस्य यज्ञस्य दावने दानाय ददातेरौणादिकोभावेवनिः हिरण्यपाणिभिः स्वर्णमयपादैः स्वर्णालंकृतैः हितरमणीयपादैर्वा अश्वैः आ उपगन्तन उपागच्छत प्राप्नुत गमेर्लोटि छान्दसः शपोलुक् तप्तनप्तनथनाश्चेतितनबादेशः अतएव ङित्वाभावादनुनासिकलोपोनक्रियते ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३