मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २९

संहिता

सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।
य॒युर्निच॑क्रया॒ नरः॑ ॥

पदपाठः

सु॒ऽसोमे॑ । श॒र्य॒णाऽव॑ति । आ॒र्जी॒के । प॒स्त्य॑ऽवति ।
य॒युः । निऽच॑क्रया । नरः॑ ॥

सायणभाष्यम्

सुषोमे शोभनसोमयुक्ते आर्जीके ऋजीकानामदेशाः तत्संबन्धि शर्यणावति कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञे सरसि पस्त्यमिति गृहनाम यज्ञगृहोपेते सोमपानाय नरोनेतारो मरुतः निचक्रया नीचीनचक्रया अवाङ्मुखं प्रवर्तमानया रथकट्यया ययुर्यान्ति गच्छन्ति यातेश्छां- दसोलिट् यद्वा नरोनेतारऋत्विजः उक्तगुणविशिष्टे शर्यणावति मरुद्यागाय सोममाहर्तुं निचक्रया नीचीनचक्रया शकट्या ययुर्गच्छन्ति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३