मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३०

संहिता

क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् ।
मा॒र्डी॒केभि॒र्नाध॑मानम् ॥

पदपाठः

क॒दा । ग॒च्छा॒थ॒ । म॒रु॒तः॒ । इ॒त्था । विप्र॑म् । हव॑मानम् ।
मा॒र्डी॒केभिः॑ । नाध॑मानम् ॥

सायणभाष्यम्

हे मरुतः इत्था इत्थमनेन प्रकारेण हवमानं आह्वयन्तं स्तुवन्तं नाधमानं याचमानं विप्रं मेधाविनं स्तोतारं मां कदा कस्मिन्काले मार्डीकेभिः सुखहेतुभिर्धनैः सार्धं गच्छाथ गच्छथ विलम्बं माकृषत शीघ्रमागच्छतेति भावः ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३