मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३३

संहिता

ओ षु वृष्ण॒ः प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।
व॒वृ॒त्यां चि॒त्रवा॑जान् ॥

पदपाठः

ओ इति॑ । सु । वृष्णः॑ । प्रऽय॑ज्यून् । आ । नव्य॑से । सु॒वि॒ताय॑ ।
व॒वृ॒त्याम् । चि॒त्रऽवा॑जान् ॥

सायणभाष्यम्

वृष्णोवर्षितॄन् अभीष्टफलदान्प्रयज्यून् प्रकर्षेण यष्टव्यान् चित्रवाजान् विचित्रगमनान् विचित्रबलान्विचित्रधनान्वा एवंभूतान् मरुतः सु सुष्ठु ओ आ उ ववृत्यां आवर्तयामि अस्मदभिमुखं यथागच्छन्ति तथाकरोमि । अपिच नव्यसे नवीयसे नवतराय अत्यन्तं प्रशस्ताय सुविताय सुष्ठुप्राप्तव्याय धनायच तानाववृत्यां आवर्तयामि ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४