मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३४

संहिता

गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।
पर्व॑ताश्चि॒न्नि ये॑मिरे ॥

पदपाठः

गि॒रयः॑ । चि॒त् । नि । जि॒ह॒ते॒ । पर्शा॑नासः । मन्य॑मानाः ।
पर्व॑ताः । चि॒त् । नि । ये॒मि॒रे॒ ॥

सायणभाष्यम्

मरुत्स्वागच्छत्सु गिरयश्चित् गिरयोपि शिलोच्चयाअपि पर्शानासः पीड्यमानाः यद्वा मरुद्भिः स्पृश्यमानाः अतएव मन्यमानाः अभि- मन्यमानाः वा बध्यमाना सन्तः निजिहते नितरां गच्छन्ति मरुद्वेगेन स्थानात्प्रच्यवन्ते । तथा पर्वताश्चित् पर्ववन्तोमेघाअपि तदीयेन गमनेन नियेमिरे नियम्यन्ते यद्वा गिरयः क्षुद्राः शिलोच्चयाः । महान्तः पर्वताः ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४