मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १

संहिता

आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥

पदपाठः

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हे अश्विनाऽश्विनौ अश्नुवानौ सर्वंजगद्भ्याप्नुवन्तौ यद्वा अश्वैर्युक्तौ युवं युवां विश्वाभिः सर्वाभिर्व्याप्ताभिर्वा ऊतिभीरक्षाभिर्दातव्याभिः सार्धं नोस्मान् आगच्छतम् आगत्य च हे दस्रा दसौ दर्शनीयौ शत्रूणामुपक्षपयितारौ वा हे हिरण्यवर्तनी हिरण्मयरथौ हितरमणी- याचरणौ वा ईदृशौ हे अश्विनौ सोम्यं सोममयं मधु पिबतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५