मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् २

संहिता

आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥

पदपाठः

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । रथे॑न । सूर्य॑ऽत्वचा ।
भुजी॒ इति॑ । हिर॑ण्यऽपेशसा । कवी॒ इति॑ । गम्भी॑रऽचेतसा ॥

सायणभाष्यम्

हे भुजी हविषां भोक्तारौ यद्वा स्तोतृभिरन्नानां भोजयितारौ सर्वस्य जगतः पालकौ वा हे हिरण्यपेशसा हिरण्ययालङ्कारौ हिरण्मयाव- यवौ वा हे कवी क्रन्तदर्शिनौ स्तोतव्यौ वा हे गंभीरचेतसा प्रशस्तज्ञानौ ईदृशौ अश्विना अश्विनौ सूर्यत्वचा सूर्यवद्भासमानेन रथेन नूनमवश्यमस्मानायातमागच्छतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५