मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ३

संहिता

आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभि॑ः ।
पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥

पदपाठः

आ । या॒त॒म् । नहु॑षः । परि॑ । आ । अ॒न्तरि॑क्षात् । सु॒वृ॒क्तिऽभिः॑ ।
पिबा॑थः । अ॒श्वि॒ना॒ । मधु॑ । कण्वा॑नाम् । सव॑ने । सु॒तम् ॥

सायणभाष्यम्

हे अश्विनौ नहुषस्परिं नहुषइति मनुष्यनाम सामर्थ्याच्चात्र तत्संबद्धोलोकोलक्ष्यते मानुषात्तस्माल्लोकात् परिः पञ्चम्यर्थानुवादी सुवृ- क्तिभिः सुष्ठु दोषवर्जिताभिः सुप्रवृत्ताभिर्वा स्तुतिभिः हेतुभूताभिः आयातमागच्छतम् । तथा अन्तरिक्षात् अन्तराक्षान्तात् मध्यमा- ल्लोकात् अप्यागच्छतम् आगत्यच कण्वानां कण्वगोत्राणामस्माकं सवने यज्ञे प्रातःसवनादौ सुतमभिषुतं मधु मधुरं सोमं हे अश्विनौ पिबाथः पिबतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५