मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ४

संहिता

आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया ।
पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥

पदपाठः

आ । नः॒ । या॒त॒म् । दि॒वः । परि॑ । आ । अ॒न्तरि॑क्षात् । अ॒ध॒ऽप्रि॒या॒ ।
पु॒त्रः । कण्व॑स्य । वा॒म् । इ॒ह । सु॒साव॑ । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हे अश्विनौ दिवस्परि दिवोधि द्युलोकात् नोस्मानायातमागच्छतम् पञ्चम्याः परावध्यर्थइति विसर्जनीयस्य सत्वम् । हे अधप्रिया अधः अधस्तात् अस्मिन्लोके विद्यमानेन सोमेन प्रीयमाणौ यद्वा कधप्रिया छान्दसोवर्णलोपः कधया स्तुत्या प्रीयमाणौ । हे ईदृशाव- श्विनौ अन्तरिक्षात् अप्यागच्छतम् इहास्मिन्यज्ञे कण्वस्य ऋषेः पुत्रः सोम्यं सोममयं मधु वां युवाभ्यां युवयोरर्थं सुषाव अभिषुणोति अतआयातमित्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५