मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ५

संहिता

आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥

पदपाठः

आ । नः॒ । या॒त॒म् । उप॑ऽश्रुति । अश्वि॑ना । सोम॑ऽपीतये ।
स्वाहा॑ । स्तोम॑स्य । व॒र्ध॒ना॒ । प्र । क॒वी॒ इति॑ । धी॒तिऽभिः॑ । न॒रा॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ नोस्माकं उपश्रुति श्रूयतइति श्रुत् स्तुतिः उपगताश्रुद्यस्मिन् तस्मिन् यज्ञे सोमपीतये सोमपानाय आयातमागच्छतम् । हे वर्धना वर्धनौ कवी क्रान्तदर्शिनावश्विनौ स्वाहा स्वाहाकृतौ स्वाहाकारेण सम्यगिष्टौ सन्तौ यद्वा स्वाहेति वाङ्गाम स्तुतिरूपया वाचा स्तुतौ वाचा स्तुमस्य स्तोतुः प्रवर्धकौ भवतम् । तथा हे नरा नेतारावश्विनौ धीतिभिः कर्मभिः यष्टुश्च प्रवर्धकौ भवतम् । यद्वा स्वाहेत्यादीन्यामन्त्रितानि हे स्वाहा स्वाहाकृतौ स्तोमस्य स्तोत्रस्य स्तोतुर्वा हे प्रवर्धना प्रवर्धयितारौ हे कवी क्रान्तदर्शिनौ धीतिभिः बुद्धिभिरात्मीयैः कर्मभिर्वा हे नरा सर्वेषां नेतारावश्विनौ सोमपानायायातमित्येकमेववाक्यम् । अस्मिन्पक्षे धीतिभिरित्यपरांगवत्वा- भावः छान्दसः । यद्वा धीतिभिर्ध्यातव्याभिर्युष्मदीयाभिरूतिभिः सार्धमायातमिति क्रियया संबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५