मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ६

संहिता

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥

पदपाठः

यत् । चि॒त् । हि । वा॒म् । पु॒रा । ऋष॑यः । जु॒हू॒रे । अव॑से । न॒रा॒ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ यच्चिद्धि यदा खलु वाम् । युवां पुरा पूर्वस्मिन्काले ऋषयः अतीन्द्रियार्थदर्शिनः स्तोतारः अवसे रक्षणाय जुहूरे जुहुविरे स्तुतिभिराह्वयन् । ह्वयतेर्लिटि अभ्यस्तस्यचेति सम्प्रसारणं हलइतिदीर्घः इरयोरे इति रेभावः तदानीं हे अश्विनौ आया- तमागच्छतम् आगतवन्तौ स्थः अतोमम मदीयां इमां सुष्टुतिं शोभनां स्तुतिमपि उपागतमुपागच्छतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६