मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ७

संहिता

दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।
धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥

पदपाठः

दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । आ । नः॒ । ग॒न्त॒म् । स्वः॒ऽवि॒दा॒ ।
धी॒भिः । व॒त्स॒ऽप्र॒चे॒त॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ॥

सायणभाष्यम्

हे स्वर्विदा स्वः सूर्यस्य द्युलोकस्य वा लंभयितारावश्विनौ दिवश्चित् द्युलोकाच्च रोचनादधि रोचमानादन्तरिक्षाच्च नोस्मानागन्तमा- गच्छतम् पूर्ववदधिः पञ्चम्यर्थानुवादकः । हेवत्सप्रचेतसा वत्सेस्तोतरि प्रकृष्टज्ञानौ यद्वा वत्सं निवासकं वेदितव्यं वा प्रकृष्टज्ञानौ यद्वा वत्सं निवासकं वेदितव्यं वा प्रकृष्टं चेतोज्ञानं ययोस्तौ तथोक्तौ तौ युवां धीतिभिरत्मीयाभिर्बुद्धिभिः सहागच्छतं हे हवनश्रुता हवनस्यास्मदीयस्याह्वानस्य स्तोत्रस्य श्रोतारौ स्तोमेभिः स्तोत्रैरस्मत्कृतैर्युज्यमानौसन्तौ आगच्छतम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६