मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ८

संहिता

किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥

पदपाठः

किम् । अ॒न्ये । परि॑ । आ॒स॒ते॒ । अ॒स्मत् । स्तोमे॑भिः । अ॒श्विना॑ ।
पु॒त्रः । कण्व॑स्य । वा॒म् । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अ॒वी॒वृ॒ध॒त् ॥

सायणभाष्यम्

अस्मदस्मत्तोन्येव्यतिरिक्ताः स्तोतारः स्तोमेभिः स्तोत्रैः अश्विना अश्विनौ देवौ किं पर्यासते अस्मद्भ्यतिरिक्ताः केप्यश्विनौ स्तोतुं नशक्नुवन्तीत्यर्थः । कण्वस्य ऋषेः पुत्र ऋषिः मन्त्रद्रष्टा वत्सः गीर्भिः स्तुतिभिः हे अशिनौ वां युवां अवीवृधत् अवर्धयत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६