मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ९

संहिता

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥

पदपाठः

आ । वा॒म् । विप्रः॑ । इ॒ह । अव॑से । अह्व॑त् । स्तोमे॑भिः । अ॒श्वि॒ना॒ ।
अरि॑प्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । म॒यः॒ऽभुवा॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ विप्रोमेधावी स्तोता इहास्मिन् यागे अवसे रक्षणार्थं स्तोमेभिः स्तोत्रैः वां युवां आह्वत् आहूतवान् ह्वयतेर्लुङि लिपिसिचिह्वश्चेति च्लेरङादेशः । हे अरिप्रा रिप्रमितिपापनाम अपापौ हे वृत्रहन्तमा वृत्राणां शत्रूणां हन्तृतमौ ता तौ तादृशौ युवां नोस्माकं मयोभुवा सुखस्य भावयितारौ भूतं भवतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६