मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १०

संहिता

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥

पदपाठः

आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे वाजिनीवसू वाजिनी हविष्मती यागक्रिया तस्यां विद्यमानस्वांशलक्षणधनावश्विनौ योषणा योषित्सूर्या आजिधावनेन प्रियमाणा- सती वां युवयोरथं यद्यदा आतिष्ठत् आस्थितवती आरूढवती तदा हे अश्विना अश्विनौ युवं युवां धीतानि ध्यातान्यभिलषितानि विश्वानि सर्वाणि प्रकर्षेणागच्छतम् प्रापतम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६