मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १२

संहिता

पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।
स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥

पदपाठः

पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । म॒नो॒तरा॑ । र॒यी॒णाम् ।
स्तोम॑म् । मे॒ । अ॒श्विनौ॑ । इ॒मम् । अ॒भि । वह्नी॒ इति॑ । अ॒नू॒षा॒ता॒म् ॥

सायणभाष्यम्

पुरुमन्द्रा बहुमदौ बहुभिः सोमैर्मादयितव्यौ वा पुरुवसू बहुधनौ बहूनां निवासकौवा रयीणां धनानां मनोतरा मन्तारौ दातारौ मन्यते- स्तृचि पृषोदरादित्वाद्रूपसिद्धिः नामन्यतरस्यामिति रैशब्दात् नामउदात्तत्वम् । वह्नी कृत्स्नस्य जगतोवोढारौ ईदृशावश्विनौ मे मम इमं स्तोत्रं अभ्यनूषातां सम्यक्स्तुतमिति प्राशंसिषाताम् । णुस्तुतौ यद्वा नुवतिरत्र श्रवणार्थे वर्तते अभिप्राप्तावश्रौष्टाम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७