मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १३

संहिता

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥

पदपाठः

आ । नः॒ । विश्वा॑नि । अ॒श्वि॒ना॒ । ध॒त्तम् । राधां॑सि । अह्र॑या ।
कृ॒तम् । नः॒ । ऋ॒त्विय॑ऽवतः । मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥

सायणभाष्यम्

हे अश्विना अश्विनौ अह्रया अह्रयाणि अह्रीतिकरणानि अलज्जाहेतूनि प्रशस्तानि विश्वानि सर्वाणि राधांसि धनानि नोस्मभ्यं आधत्तं प्रयच्छतम् । अपिच नोस्मान् ऋत्वियावतः ऋतौ कालेभवं प्रजोत्पादनरूपं कर्म ऋत्वियं तद्वतः कृतम् कुरुतम् । तथा निदे निंदायै निन्दकाय वा नोस्मान् मारीरधतं मावशं नैष्टम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७