मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १४

संहिता

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥

पदपाठः

यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । अम्ब॑रे ।
अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा अश्विनौ यद्यदि परावति दूरदेशे स्थः यद्वा यदिच अंबरे अन्तिकनामैतत् समीपे स्थोभवथः । अधिः सप्तम्यर्थानुवादी अतोस्मात्सर्वस्मात्स्थानात् सहस्रनिर्णिजा बहुविधरूपेण रथेन हे अश्विनावागच्छतम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७