मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १५

संहिता

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥

पदपाठः

यः । वा॒म् । ना॒स॒त्यौ॒ । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ।
तस्मै॑ । स॒हस्र॑ऽनिर्निज॑म् । इष॑म् । ध॒त्त॒म् । घृ॒त॒ऽश्चुत॑म् ॥

सायणभाष्यम्

हे नासत्यौ योवत्साख्यऋषिः वां युवां गीर्भिः स्तुतिभिः अवीवृधत् अवर्धयत् तस्मै ऋषये सहस्रनिर्णिजं बहुविधरूपं घृतश्चुतं घृतं क्षरन्तीं इषमन्नं धत्तं प्रयच्छतम् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७