मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १६

संहिता

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।
यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥

पदपाठः

प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒त॒ऽश्चुत॑म् । अश्वि॑ना । यच्छ॑तम् । यु॒वम् ।
यः । वा॒म् । सु॒म्नाय॑ । तु॒स्तव॑त् । व॒सु॒ऽयात् । दा॒नु॒नः॒ । प॒ती॒ इति॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ अस्मै स्तोत्रे घृतश्चुतं घृतधारया युक्तं ऊर्जं बलकरमन्नरसं युवं युवां प्रयच्छतं दत्तं हे दानुनस्पती दानस्याधिपती वां युवां सुम्नाय सुखार्थं यस्तुष्टवत्स्तूयात् यश्च वसूयात् वसुधनमात्मनइच्छेत् अस्माइत्यन्वयः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८