मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १७

संहिता

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥

पदपाठः

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ ।
कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥

सायणभाष्यम्

हे रिशादसा रिशतां हिंसतां निरसितारौ यद्वा रिशानां हिंसकानां अत्तारौ भक्षयितारौ हे पुरुभुजा बहुलस्य हविषोभोक्तारौ बहूनां पालकौ वा हे अश्विनौ नोस्माकमिमं स्तोमं स्तोत्रं आगन्तमभिगच्छतम् आगत्यच हे नरा नेतारौ नोस्मान् सुश्रियः सुश्रीकान् शोभनया सम्पदा युक्तान् कृतं कुरुतम् । तदर्थं इमा इमानि पुरोव्र्तमानानि पार्थिवानि अभिष्टये अभिप्राप्तये दातं ददतम् ददातेर्लोटि छान्दसः शपोलुक् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८