मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १८

संहिता

आ वां॒ विश्वा॑भिरू॒तिभि॑ः प्रि॒यमे॑धा अहूषत ।
राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥

पदपाठः

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
राज॑न्तौ । अ॒ध्व॒राणा॑म् । अश्वि॑ना । याम॑ऽहूतिषु ॥

सायणभाष्यम्

हे अश्विना अश्विनौ यामहूतिषु यामानां यातॄणां देवानां हूतिराह्वानं येषु यागेषु तेषु प्रियमेधाः प्रिययज्ञाः एतत्संज्ञाऋषयः अध्वराणां यज्ञानां राजन्तौ ईश्वरौ राजतिरैश्वर्यकर्मा अश्विनौ हि देवानामध्वर्यूआस्तामितिहि ब्राह्मणम् । ईदृशौ विश्वाभिः सर्वाभिरूतिभीरक्षाभिः सहितौ वां युवां आहूषत आह्वयन् अस्तुवन्नित्यर्थः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८