मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् १९

संहिता

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् ।
यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥

पदपाठः

आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् ।
यः । वा॒म् । वि॒ऽप॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ मयोभुवा मयसः सुखस्य भावयितारौ शंभुवा रोगाणां शमस्य भावयितारौ युवं युवां नोस्मानग्न्तमागच्छतम् । हे विपन्यू स्तुत्यावश्विनौ योवत्सः स्तोता वां युवां धीतिभिः कर्मभिः परिचरणैः गीर्भिः स्तुतिभिश्च अवीवृधत् अवर्धयत् तानस्मानिति पूर्वत्रान्वयः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८