मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् २०

संहिता

याभि॒ः कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।
याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥

पदपाठः

याभिः॑ । कण्व॑म् । मेध॑ऽअतिथिम् । याभिः॑ । वश॑म् । दश॑ऽव्रजम् ।
याभिः॑ । गोऽश॑र्यम् । आव॑तम् । ताभिः॑ । नः॒ । अ॒व॒त॒म् । न॒रा॒ ॥

सायणभाष्यम्

हे अश्विनौ याभिरूतिभिः कण्वमृषिं मेधातिथिं च आवतं अरक्षतम् याभिश्च वशं एतत्संज्ञं दशव्रजं च आवतम् याभिश्च गोशर्यं शीर्णागौर्यस्य सगोशर्यः शयुः तथाचाम्नातम्-शयवेचिन्नासत्याशचीभिर्जसुरयेस्तर्यंपिप्यथुर्गामिति । ईदृशं गोशर्यं शयुं आवतं अरक्षतम् हे नरा नेतारौ ताभीरूतिभिर्नोस्मानवतं रक्षतम् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८