मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् २१

संहिता

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
ताभि॒ः ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥

पदपाठः

याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ ।
ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ धने कृत्व्ये कर्तव्ये प्राप्तव्ये सति त्रसदस्युं एतत्संज्ञं पुरुकुत्सपुत्रमृषिं याभिरूतिभिरावतमरक्षतम् हे अश्विनौ ताभि- रूतिभिः सु सुष्ठु अस्मान्प्रावतं प्ररक्षतं किमर्थं वाजसातये वाजस्यान्नस्य बलस्य वा संभजनार्थम् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९