मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् २२

संहिता

प्र वां॒ स्तोमा॑ः सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।
पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥

पदपाठः

प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ ।
पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥

सायणभाष्यम्

हे अश्विनौ स्तोमाः प्रगीतमन्त्ररूपाःस्तुतयः सुवृक्तयः सुप्रवृत्ताः सुष्ठु दोषवर्जितावा गिरः शस्त्ररूपावाचश्च वां युवां प्रवर्धन्तु प्रवर्धयन्तु । अपिच हे पुरुत्रा बहूनां त्रातारौ हे वृत्रहन्तमा वृत्राणां शत्रूणां हन्तृतमौ ईदृशौ हे अश्विनौ ता तौ युवां नोस्माकं पुरुस्पृहा पुरु बहुलं स्पृहणीयावीप्सितव्यौ भूतं भवतम् ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९