मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् २३

संहिता

त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।
क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

पदपाठः

त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुहा॑ । प॒रः ।
क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥

सायणभाष्यम्

त्रीणि त्रिसंख्याकानि अनयोरश्विनोर्देवयोरथस्य संबन्धीनि पदानि चक्राणि गुहा गुहायां वर्तमानानि एतावन्तं कालमदृश्यमानानि परः गुहायाः परस्तात् दृष्टिगोचरेदेशे आविः सांति आविर्भवन्ति सांहितिकश्छान्दसोदीर्घः व्यत्ययेननिघाताभावः । यद्वा सन्तीत्येतदस्तेः शतरि जसि रूपम् आविर्भूतानि दृश्यन्ते अश्विनोरथस्य चक्रत्रयोपेतत्वंच-रथस्त्रिचक्रःपरिवर्ततेइत्यादिनिगमान्तरेप्रसिद्धम् । कवी क्रान्तदर्शिनौ अश्विनौ ऋतस्य सत्यस्योदकस्य यज्ञस्य वा हेतुभूतैः पत्मभिः यैः पदैः जीवेभ्यस्परि परिरुपर्यर्थः पञ्चम्याः परावध्यर्थइति सत्वम् जीवानामुपरि जीवेष्वस्मासु अर्वागभिमुखं आगच्छतमिति शेषः तानि पदानीदानीं उपलभ्यन्त इत्यन्वयः ॥ २३ ॥

आनूनमित्येकविंशत्यृचं चतुर्थं सूक्तं शशकर्णस्यार्षं अश्विदेवत्यं विंश्येकविंश्यौ द्वितीयातृतीयेचेति चतस्रोगायत्र्यः प्रथमा चतुर्थी षष्ठी चतुर्दशी पञ्चदशीचेति पञ्चबृहत्यः पञ्चमीककुप् मध्यमश्चेत्ककुप् इत्युक्तलक्षणसद्भावात् दशमीत्रिष्टुप् एकादशी विराट् द्वादशी जगती शिष्टाअनुष्टुभः । तथाचानुक्रान्तम्-आनूनंसैका शशकर्णोंत्येगायत्र्यावुपाद्येचाद्याचतुर्थीषष्ठीचतुर्दश्याद्येचबृहत्यः पञ्चमीककुब्दश- म्याद्यास्त्रिष्टुब्बिराट् जगत्यइति । अप्तोयामे ब्राह्मणाच्छंसिनोतिरिक्तोक्थे इदं सूक्तं सूत्र्येतहि-आनूनमश्विनातंवांरथमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९