मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् १

संहिता

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।
प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥

पदपाठः

आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से ।
प्र । अ॒स्मै॒ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवं युवां वत्सस्य स्तोतुर्मम अवसे रक्षणार्थं नूनमवश्यं आगन्तमागच्छतम् आगत्यचास्माऋषये अवृकं बाधकरहितं पृथुविस्तीर्णं छर्दिर्गृहं प्रयच्छतं प्रदत्तम् । तथा याः अरातयः अदानशीलाः शत्रुभूताः प्रजास्तायुयुतं स्तोतृभ्यः पृथक्कुरुतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०