मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् २

संहिता

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ ।
नृ॒म्णं तद्ध॑त्तमश्विना ॥

पदपाठः

यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ ।
नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

अन्तरिक्षे गन्धर्वादिभिः सेविते मध्यमे लोके यन्नृम्णं धनमस्ति दिवि द्युलोकेच यदस्ति पञ्च पञ्चसंख्याकान्मानुषान् मनुष्यान् अनु । लक्षणे अनोःकर्मप्रवचनीयत्वम् कर्मप्रवचनीययुक्तइतिद्वितीया पञ्चविधामनुष्याः निषादपञ्चमाश्चत्वारोवर्णायत्रवर्तंते तत्रचेहलोके यन्नृ- म्णं धनमस्ति हे अश्विना अश्विनौ तन्त्रिविधं नृम्णं धनं धत्तं अस्मभ्यं प्रयच्छतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०