मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ३

संहिता

ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।
ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥

पदपाठः

ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः ।
ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः संबन्धीनि दंसांसि कर्माणि परिचरणात्मकानि ये विप्रासोविप्रामेधाविनोयजमानाः परिमामृशुः परिमृशन्ति पुनःपुनः स्पृशन्ति अनुतिष्ठन्तीत्यर्थः यथा तदीयानि परिचरणानि युवां जानीथः एवेत् एवमेव काण्वस्य कण्वपुत्रस्य मम परिचरणं बोधतमवगच्छतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०