मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ५

संहिता

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।
तेन॑ माविष्टमश्विना ॥

पदपाठः

यत् । अ॒प्ऽसु । यत् । वन॒स्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒ऽदं॒स॒सा॒ । कृ॒तम् ।
तेन॑ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे पुरुदंससा बहुकर्माणावश्विनौ अप्सूदकेषु यद्भेषजं कृतं युवामकार्ष्टम् करोतेर्लुङि मन्त्रेघसेत्यदिनाच्लेर्लुक् तथा वनस्पतौ वनानां पति- र्वनस्पतिः पारस्करादित्वात्सुट् उभेवनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् जाताविदमेकवचनम् वनस्पतिषु वृक्षेषु यच्च भेषजं युवामकुरुतम् ओषधीषु ओषः पाकः आसु धीयतइति ओषधयोव्रीह्यादयः कर्मण्यधिकरणेचेति दधातेरधिकरणेकिप्रत्ययः दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् ओषधेश्च विभक्तावप्रथमायामितिदीर्घः व्रीह्यादिष्वोषधीषुच यद्भेषजं कृतं युवामका- र्ष्टम् । हे अश्विना अश्विनौ तेन सर्वेण भेषजेन मा मां अविष्टं रक्षतम् अवतेर्लोटि सिब्बहुलमिति बहुलग्रहणात् सिप् ततइट् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०