मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ८

संहिता

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।
आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥

पदपाठः

आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ ।
आ । वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥

सायणभाष्यम्

हे अश्विनौ लघुवर्तनिं रघुवर्तनं शीघ्रगमनं रथं नूनमवश्यमिदानीमेव आतिष्ठाथः आतिष्ठतं अधिरोहतम् वालमूललध्वलमितिलघोर्लका- रस्यरेफः । मम मदीयाइमे स्तोमाः स्तोत्राणि नभोन सूर्यमिव तेजस्विनौ वां युवां आचुच्यवीरत आच्यवन्ते अभिगच्छन्ति यद्वा च्यवतिरत्रान्तर्भावितण्यर्थः आच्यवयन्ति युवामभिप्रापयन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१